पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
काव्यमाला ।

२४ काव्यमाला। सभाजनेनेति। कस्यचिद्राज्ञो मन्त्रिणः पौरैस्तिरस्कृताः।ततस्तस्य स्वसभ्याधिक्षेपजातकोपस्यापरागभयात्पौराननिगृह्णतः कान्तिभ्रंशो बभूव । ततः कस्मिंश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः । ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे । ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप' इति समुदायार्थः । पादानां त्वेवं योजना । कश्चित्सभ्यः परस्य कथयति-सभाजनेन सभ्यलोकेन।मन्त्रिजनेनेत्यर्थः । उपरि पृष्ठतः, पू: पौरजनता । इता प्राप्ता, असौ। एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः । कदा । सभां सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौरजने । न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खड्गा येन स ऊरितासिस्तस्मिन्नेवंविधे । अनुद्यतखड्ग इत्यर्थः । अत एव जनानामिनः स्वामी जनेनो राजा, सह भासा वर्तते इति सभाः सदीप्तिकः संवृत्तः । अन्यच्च कीदृशे पौरलोके । अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन् । मृततुल्य इत्यर्थः । तथा सभाजने । 'सभाज प्रीतिदर्शने' इत्यस्मात्कर्तरि ल्युट् । नोऽस्माकं प्रीतिकरे । पूजक इत्यर्थः । अत एवास्माकं पूर्वप्रक्रान्तो जनेनः, अवतीत्यूः । रक्षिता संपन्न इत्यर्थः । कथम् । अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम्। किंभूते पौरलोके । इतासौ इता प्राप्ता असुः अपूजा येन तस्मिन् । अधिगतमानभ्रंश इत्यर्थः। 'परिप्रतिगतार्थौ तु सु पूजायां यदा भवेत् । अतिरतिक्रमणे चैव नोपसी इमे तदा ॥' इति सर्वपादजं पडीयमकम् ।। भूयोऽपि भेदान्तरमाह-

परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण । . मुखपुच्छयोश्च योगाद्धुग्मकमिति पादजं नवमम् ॥ १३ ॥

परिवृत्तिरिति । पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे परिवृत्तिर्नाम यमकं भवति । तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगाधुग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति ॥ तत्र परिवृत्त्युदाहरणम्-

मुदा रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥ १४ ॥

मुदेति । एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसृतं नायकमाह -असौ रमणी स्त्री त्वयि रता। मुदा प्रीत्या । न तु धनलोभादिना । यता त्वदागमनार्थ प्रयत्नपरा । यां त्वं वोढा परिणेता। अदो लं निःसंदेहं स्मरसि ध्यायसि।कीदृशस्त्वम्। कुरुतेनोपलक्षितः। कुत्सितं रुतं कुरुतं तेन । यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम् । ननु यदि सा मानिनी तत्किमनुनयाथै त्वं प्रेषितत्याह-यस्मादुदारतासौ औचित्यमिदम् । रमणीयतायां रमणीयत्वे । यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति । अनवोढां प्रगल्भां नायिकाम् ॥


१.नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु 'समाज प्रीतिदर्शनयोः' इति पाठो दृश्यते.