काव्यमाला।
वृत्तौ परिशिष्टा वृत्तिचतुष्टयोपयुक्तवर्णशेषाः । ते च पृथगसंयुक्ताः सन्ति । युक्ता-
श्चद्भवन्ति तदा श्रव्यैः श्रुतिसुखैर्योज्या इति ॥
ललितोदाहरणमाह-
मलयानिलललनोल्ललमदकलकलकण्ठकलकलललामः ।
मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ ३० ॥
मलयेति । अयं मधुर्वसन्तोऽधुना धरां पृथ्वी धिनोति प्रीणयति । किंभूतः। मलया-
निलस्य मलयवायोर्यल्ललनं गमनं तेनोल्ललाः सोत्कण्ठा मदकला मदमधुरा ये कलकण्ठाः
कोकिलास्तेषां यः कलकलः कोलाहलस्तेन ललामः श्रेष्ठः| अथवा स एव ललामो
ध्वजो यस्य स तथा । अन्यच्च मधुरेण मधुना मकरन्देन विधुरा मत्ता भ्रमरा यस्य स
तथा । अत्रान्ये उदाहृताः । घमसानां स्वयमुदाहरणं द्रष्टव्यम् ।।
भद्रोदाहरणमाह-
उत्कटकरिकरटतटस्फुटपाटनसुपटुकोटिभिः कुटिलैः ।
खेलेऽपि न खलु नखरैरुल्लिखति हरिः खरैराखुम् ॥ ३१ ॥
उत्कटेति । हरिः सिंहो न खलु नैव खेलेऽपि क्रीडायामप्याखं मूषकमुल्लिखति
विदारयति नखैः । कीदृशैः। उत्कटा दृढा ये करिकरटतटा द्विपगण्डस्थलानि तेषां य-
त्स्फुटं प्रकटं पाटनं दारणं तत्र सुष्ठु पटुर्दक्षा कोटिरग्रं येषां तैः । तथा कुटिलैरनृजुभिः
खरैस्तीक्ष्णैः । अत्र कटखाः केवलाः पूर्वत्र न प्रयुक्ता इति परिशिष्टत्वम् ॥
अथाध्यायमुपसंहरन्यथैता वृत्तयो रचिता रमणीया भवन्ति तथाह-
एताः प्रयत्नादधिगम्य सम्यगौचित्यमालोच्य तथार्थसंस्थम् ।
मिश्राः कवीन्द्रैरघनाल्पदीर्घाः कार्या मुहुश्चैव गृहीतमुक्ताः ॥ ३२ ॥
एता इति । एताः पूर्वोक्ता वृत्तयः कवीन्द्रैः सुकविभिमिृश्राः परस्परान्तरिताः
कार्याः । किं कृत्वा । अधिगम्य ज्ञात्वा प्रयत्नात्तात्पर्येण । कथम् । सम्यगविपरीतम् ।
तथा औचित्यमर्थसंस्थं पात्रगतमभिधेयगतं चालोच्य विमृश्य । कीदृश्यः सत्यो मिश्राः
कार्या इत्याह-अघनाल्पदीर्घाः । अघना असंहताः । वृत्तौ वृत्तिनिृरन्तरलग्ना न
कार्या । यदि वा अघना असंयोगाक्षराः। एवंविधा अप्यल्पदीर्घाः कर्तव्याः । एकैव
वृत्तिरत्यन्तमायता न कार्या । यदि वा अल्पानि दीर्घाणि दीर्घाक्षराणि यास्विति यो-
ज्यम् । एवंविधा अप्यलंकारान्तररहिता उद्वेगकारिण्यः श्रोतृणां स्युरित्याह-कार्या
मुहुः पुनःपुनर्ग्रहीतमुक्ताः । मुहुर्मोक्तव्यः कर्तव्यश्चानुप्रास इति ॥
इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो
द्वितीयोऽध्यायः समाप्तः ।
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला ।
