पृष्ठम्:काव्यरत्नम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
काव्यरत्ने

नभस्थलेनागरुधूमलेखाः
 स्फुरत्स्फुलिङ्गाः शशिशङ्कयामी ।
सितातपत्रग्रसनाय धाव-
 द्विधुन्तुदा वान्तविषस्फुलिङ्गाः ॥ २० ॥

अङ्गारविक्षिप्तदशाङ्गधूपः
 सङ्क्रान्तसन्ताप इव क्षणेन ।
आश्लिष्यदुत्थाय पटीरहार-
 कर्पूरकल्हारपयोरुहाणि ॥ २१ ॥

गद्येन पद्येन च दण्डकेन
 शशंस गीतेन च गाथया च ।
मरुद्गणोऽयं न परं परोऽपि
 गुहामुखोद्यत्प्रतिशब्ददम्भात् ॥ २२ ॥

वियत्तलं वीतघनाधनौघ-
 मपि प्रपूर्णं जिनदेहभासा ।
विभिन्ननीलाञ्जनसन्निभेन
 पुनर्घनापूर्णमिवाबभासे ॥ २३ ।।

जिनाम्बुदोऽसाविभदानवृष्टि-
 र्नटीतटिद् वाद्यनिनादगर्जः।
विमानमालारुचिकार्मुको दि-
 व्याकालिकीं प्रावृषमाततान ॥ २४ ॥

अभ्राण्यदभ्राणि सुरेभदन्त-
 प्रोतानि रेजुः परितो जिनेन्द्रम् ।
उत्क्षिप्यमाणानि मुदामुनेव
 चन्द्राश्मदण्डातपवारणानि ॥ २५ ॥