पृष्ठम्:काव्यरत्नम्.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
पञ्चमः सर्गः।

संसारगर्तापतिताखिलैक-
 हस्तावलम्बं जिनराजमिन्द्रः ।
हृदा च दोर्भ्यामवलम्बमानः
 पथा सुराणामथ संप्रतस्थे ॥ १४ ॥

आकारमात्रेण तुषारशैल!
 का कूटराशेस्तव तुल्यतेति ।
आकर्णयिष्यन्निव विप्रलापा-
 नाकाशमार्रोऽक्रमताभ्रनागः॥ १५ ॥

आरुह्य नानाविधवाहनानि
 जिनाग्रवामेतरपृष्ठदिक्षु ।
क्रमेण वन्योरगकल्पवासि-
 ज्योतिष्कनाथा व्यचलन् ससैन्याः॥ १६ ॥

नभोन्तरे नाथतनुप्रभाभिः
 प्रपूरिते प्रोज्ज्वलरत्नकूटाः।
बभुर्विमानाः कुलिशास्त्रभीतेः
 समुद्रमग्ना इव सानुमन्तः ॥ १७ ॥

जिनाङ्गदीप्त्या दधुरभ्रवीथ्यां
 तरङ्गितायां सितचामराणि ।
सुरावधूतानि कलिन्दकन्या-
 तरङ्गदोलारतहंसलीलाम् ॥ १८ ॥

चला न्यलीयन्त जिनाङ्गरोचि-
 र्वीचीप्रपञ्चेऽगरुधूमलेखाः ।
हरेर्विभीताः फणिराजपत्न्य-
 स्तरङ्गकुञ्जेष्विव यामुनेषु ॥ १९ ॥