पृष्ठम्:काव्यरत्नम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
कान्यरले

जिनाङ्गदीप्त्या पिहितस्वकान्ति-
 र्विकस्वरस्फारसहस्रनेत्रः ।
सुराधिनाथः शुशुभेऽञ्जनाद्रि-
 यथैव फुल्लस्थलपुण्डरीकः ॥ ८॥

करारविन्दद्वयभृङ्गराशिं
 जिनं पदाब्जद्वितये प्रणम्य ।
चकार देवाधिपतिर्द्वितीय-
 मनर्घ्यचूडामणिमुत्तमाङ्गे ॥ ९॥

अथैष संसारमहाम्बुराशिं
 समुत्तितीर्षुर्जिनपोतमेनम् ।
दधत् कराभ्यां दृढमुत्सवेन
 स्वसिन्धुरस्कन्धतटं निनाय ॥ १० ॥

द्वात्रिंशदास्यानि मुखेऽष्ट दन्ता
 दन्तेऽब्धिरब्धौ बिसिनी बिसिन्याम् ।
द्वात्रिंशदब्जानि दलानि चाब्जे
 द्वात्रिंशदिन्द्रद्विरदस्य रेजुः ॥ ११ ॥

अस्पृष्टनीरेजदलं नटन्त्यो
 नट्यः सुराणामभितो नृसिंहम् ।
रंहो वितेनुर्निजवल्लभाशा-
 प्रकाशमानाब्जनिवेशनानाम् ॥ १२ ॥

ईशाननाथः स्वयमातपत्रं
 दधौ तदूर्ध्वोभयकल्पनाथौ ।
प्रकीर्णके प्राक्षिपतां परेऽपि
 यथावमासन् करणीयभाजः ॥ १३ ॥