पृष्ठम्:काव्यरत्नम्.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
काव्यरले

भृङ्गा वदन्तो विविशुः प्रतीत्यै
 पद्माभिकुण्डेषु परीत्य विद्मः ॥ ३३ ॥

मुक्ता रजोभिर्बहुकण्टकैश्च
 जिनप्रभावेन समुज्ज्वलात्मा ।
वसुन्धरापि प्रमदेन जाता
 सस्यच्छलाङ्कूरितरोमराजिः ॥ ३४ ॥

स्वभावशुद्धा अपि सर्वजीवा-
 श्चिरं रजोभिः परिभूयमानाः ।
न केवलं निर्गलितेषु तेषु
 दधुः प्रसादं ककुभोऽपि सद्यः ॥ ३५ ॥

गृहेषु शङ्खा भवनामराणां
 वनामराणां पटहाः पदेषु ।
ज्योतिस्सुराणां सदनेषु सिंहाः
 कल्पेषु घण्टाः स्वयमेव नेदुः॥ ३६ ।।

पुष्पाः पतन्तो नभसः सुधांशो-
 रेणस्य सिंहध्वनिजातभीतेः।
पदप्रहारैः पततामुडूनां
 शङ्कां तदा विद्रवतो वितेनुः ।। ३७ ।।

अभ्रात् पतन्तो मणयस्तदानी-
 मुच्चण्डघण्टाध्वनिताडनेन ।
भिन्नेन्द्रकोशालयतो जनानां
 मतिं वितेनुर्गलतां मणीनाम् ॥ ३८ ॥


१. 'म्भे क. पाठ:.