पृष्ठम्:काव्यरत्नम्.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः ।

भट्टाकलङ्काद् गुणभद्रसूरेः
 समन्तभद्रादपि पूज्यपादात् ।
वचोऽकलङ्कं गुणभद्रमस्तु
 समन्तभद्रं मम पूज्यपादम् ॥ १० ॥

वीराकरोत्थं मुनिसार्थनीतं
 कथामणिं श्रीमुनिसुव्रतस्य ।
सुवर्णदीप्रं नवयुक्तिरम्यं
 विदग्धकर्णाभरणं विधास्ये ॥ ११ ॥

सरस्वतीकल्पलतां स को वा
 संवर्धयिष्यन् जिनपारिजातम् ।
विमुच्य काञ्जीरतरूपमेषु
 व्यारोपयेत् प्राकृतनायकेषु ॥ १२ ॥

गणाधिपस्यैव गणेयमेतद्
 भवामि चोद्यन् भगवच्चरित्रे ।
भक्तीरितो नन्वगचालनेऽपि
 शक्तो न लोके ग्रहिलो न लोकः ॥ १३ ॥

मनः परं क्रीडयितुं ममैतत्
 काव्यं करिष्ये खलु बाल एषः ।
न लाभपूजादिरतः परेषां
 न लालनेच्छाः कलभा रमन्ते ॥ १४ ॥

श्रव्यं करोत्येष किल प्रबन्धं
 पौरस्त्यवन्नेति हसन्तु सन्तः ।