पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३ विचारः दर्पदलनम् ।

जनकं हतमालोक्य ब्रह्महत्याभयाकुलः।
गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥ १३२॥

अर्वावसुस्तमवदद्भ्रातः किं क्रियते विधेः ।
भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥ १३३ ॥

धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् ।
विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ।। १३४ ॥

ब्रह्महत्याव्रतं तीनं भवतोऽर्थे चराम्यहम् ।
त्वमस्य कुरु भूभर्तुः संपूर्णा याजनक्रियाम् ॥ १३५ ।।

उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतवतः।
चकार सर्वतीर्थेषु तीब्रनिष्कृतिपारणम् ॥ १३६ ।।

तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् ।
दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥ १३७ ।।

अयं मे दक्षिणाकाले भागहर्ता समागतः ।
मदभाग्यैश्चिरं तीव्रतक्लिष्टोऽपि जीवति ॥ १३८॥

इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् ।
लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ।। १३९॥

राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया ।
प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥ १४० ।।

इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् ।
तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ।। १४१ ॥

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।
पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १४२ ।।

मिथ्यापवाददानेन नैव भ्राने चुकोप सः ।
निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥ १४३ ।।

तेन तस्यानृशंस्येन निर्विकारतया तया ।
तुष्टाः ऋतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥ १४४ ।।

१. 'विपत्तयः' क. २. 'चाचर' क. ३. 'कृतघ्नः' क. ४. "विकारे' ख.