पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्

९२ काव्यमाला।

आसनाब्जे सरस्वत्या जपलोलरदच्छदे ।
दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ।। ९५ ॥

इयं तपोवनमही विवेकजननी कथम् ।
जनयत्यभिलाषं ते जननीवाजितात्मनः ॥ ९६ ॥

दुर्मदो(दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः ।
सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥ ९७ ॥

धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् ।
धार्यते यैर्न संस्कारविकारस्खलितं मनः ।। ९८ ।।

क्व विद्या विदिताशेषकार्याकार्यविमर्शधीः ।
मूढता क्व च दुष्कर्ममहापापकुटुम्बिनी ॥ ९९ ।।

इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् ।
शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥१०० ॥

किं करोम्यजने लब्धा विवशाहं प्रमादिना ।
उत्सृष्टधर्मनियमाः किं न कुर्वन्त्यवारिताः ॥ १०१॥

अयं स्मरातुरस्तावद्वचसा न निवर्तते ।
वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धताः ॥ १०२ ॥

इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी ।
गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥ १०३ ॥

स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम ।
ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥ १०४॥

इत्युक्तः स तथा प्रायात्सत्यं विज्ञाय तद्वचः।
दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥ १०५ ॥

रैभ्यं ततः समायातमग्न्यागाराग्रतः स्थितम् ।
स्नुषा प्रोवाच कोपाग्निधूमेनेवाश्रुवर्षिणी ॥ १०६ ॥

भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः ।
ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥ १०७ ।।

१. 'धार्यते' क. २. 'दुष्कर्ममाता' क, 'दुष्कर्ष' ख, ३. 'भाषिणी' ग.