पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

88 विचारः दर्पदलनम् ।

तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् ।
बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥ ८२ ॥

स ब्रह्मचारी कामेन नवेन तरलीकृतः ।
अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ।। ८३ ॥

उन्मादनमिदं रूपमनुरूपं मनोभुवः ।
समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥ ८४ ॥

विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् ।
त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ।। ८५ ॥

जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् ।
तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ।। ८६ ॥

न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा ।
प्रवृत्तं शक्यते रोढुं मनोभवपथे मनः ॥ ८७ ॥

इत्युक्त्वा तां भयोद्भ्रान्तनयनामाश्रमोन्मुखीम् ।
गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ॥ ८८ ॥

कदली कुञ्जरेणेव तरसा तेन निर्जने ।
कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥ ८९ ।।

मा मा मलिनय स्वच्छं शीलं मम तथात्मनः ।
विद्यायाः निरवद्यायाः किमेतदुचितं फलम् ॥ ९० ॥

शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव ।
गृह्णासि परनारीणां पाणिना पटपल्लवम् ।। ९१ ।।

किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः ।
उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥ ९२ ॥

बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् ।
जटावल्कलभारस्ते तरोरिव न शान्तये ॥ ९३ ।।

पापसंकल्पमात्रेण त्रपयाधोमुखी तव ।
पतिता स्पर्शमीत्येव कम्पलोलाक्षमालिका ॥ ९४ ।।

१. 'वृत्तेन निवृत्तेन' क.

०गु०