पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१ विचारः] दर्पदलनम् ।

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।
विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ।। ५० ।।

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।
अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी।
तमुवाच ससंतापं स्नेहसंक्रान्ततद्व्यथा ॥ ५२ ।।

वहैनं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।
अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥ ५३ ॥

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।
परदुःखं न जानाति चण्डं चण्डालचेष्टितः ।। ५४ ॥

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।
योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥

नवनीतोपमा वाणी करुणाकोमलं मनः ।
एकबीजप्रजातानां भवत्यवनतं शिरः ॥ ५६ ॥

रटति कटुकाटोपं कोपादकारगवैस्वा-
न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।
क्षणरसिकतालोलः सेवाश्रितानवमन्यते
गुणिषु कुरुते गर्वोद्गारानखवर्गलः खलः ॥ ५७ ।।

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।
सर्वप्राणिखनाभिज्ञः संमोहाभिहतोऽपतत् ।। ५८ ॥

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।
तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ ५९ ॥

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।
यथाश्रुतं निवेद्यास्यै सर्व पप्रच्छ ता रहः ॥ ६० ॥

१. 'विहन्तुं' ख. २. 'ससंतापा' क. ३. 'एतद्भवति' क. ४. 'प्रसूतानां भवत्येव'

ख. ५. 'खर्वोद्गर्जदखर्वकल; क. ६. 'मोहशुशात्' ख.