पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

६३ काव्यमाला।

जगद्योगक्षेमौ जनकजगतीजानितनये
त्वदीये पादाब्जे वहत इमके रत्नकवचे ।
मम प्रेमप्राणावपि वहत एते पुनरहं
वहाम्येतौ तस्मादिह मम समानोऽस्तु कतमः ॥ ८३ ॥

बहिर्मुक्ते लीलागृहगमनवेलासु वसुधा-
दुहित्रेत्यङ्ग्रित्रे निजविफलतां मा कलयताम् ।
विना वां किं वास्याः पदकिसलयौ द्रष्टुमधिको-
सुकानां लोकानां जनयतु विनोदं नयनयोः ॥ ९० ॥

परिष्वक्ते मुक्तावलिभिरभितस्तेऽङ्घ्रिकवचे
नमन्तो दूरेण प्रणयरसपूरेण तरलाः ।
सुपर्वाणः के नो पशुतरुविशेषान्यतरतां
स्तुवन्तो निन्दन्ति त्रिदशपदवीं रामदयिते ॥ ९१ ॥

उपस्तीरोत्तीर्णत्रिदशपुरपूर्णेन्दुवदना-
ञ्जलस्रस्तस्वर्णाम्बुजनवरजस्यर्णवसुते ।
त्वदङ्घ्रिस्पृक्पीठाङ्घ्रिषु परिधिभूते घृणिरयं
लुठित्वा तद्रागं जगति सविभागं वितरति ॥ ९२ ॥

पुरःपश्चात्पार्श्वे प्रणमदमरान्तर्गतगजा-
ननापर्णापर्णारमणतिलकार्धेन्दुकिरणैः ।
चतुःस्रोतःपूर्णं तव सविधुरत्नासनमये
सवर्णं स्वर्णार्देः स्रवदमरसिन्धोः प्रतिदिशम् ॥ ९३ ।।

पुरो नम्रान्कम्रोत्तमरमणपत्पद्मसुषमा-
समुद्रामग्नं ते स्पृशतु हृदयं मा स्पृशतु वा ।
परं त्वेतानन्तस्तव चरणपीठं मणिमयं
स्पृशत्येव स्तुत्ये प्रसरदनुरागोर्मिनिकरम् ।। ९४ ।।

१. इमे पादाब्जे. २. युवां विना किं चतु विनोदं जनयतु. ३. सूर्यः. ४. चन्द्रका- न्तखचितम्.