पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला


स मञ्जीयान्संजीवयतु जगतां मातुरुषसि
व्रजन्त्या मञ्जीरध्वनिरशरणं जीवहरिणम् ॥ ५२ ॥

भ्रमन्त्यास्त्वच्चिन्तामणिगृहसमन्ताद्यदुदये
विपञ्ची खं चोलं प्रविशति विरञ्चेर्मृगदृशः ।
शुकोऽप्यस्याः पश्यत्यभिमुखमहो पञ्जरमुखं
जगन्मातुः(तः) प्रातः स जयति भवन्नूपुररवः ॥ ५३ ॥

यदप्याशाधीशास्तव दश लभन्तेऽङ्घ्रिजशिखाः
शनैर्नूनं लूनास्तदपि वरुणस्तत्र करुणः ।
दिशि स्वस्यां यस्तां प्रमुदितसमस्तां प्रकटय-
त्यपूर्वेन्दुं सर्वेऽप्यभिदधति यां निर्वृतिमयीम् ॥ ५४ ॥

मणीनेकैकस्यां दशदश फणीशो वहति य-
त्फणायां विच्छायीकृतनवदिनेशानवनिजे ।
नखानां ध्यानाय प्रतिफणमयं तत्प्रतिकृती:
प्रतीमः सप्रेमा कलयत इमास्त्वच्चरणयोः ॥ ५५ ॥

तपःस्फूर्जन्नूर्जखलनखकुलं तेऽङ्घ्रिकमलं
मुनिः कश्चित्सचिन्मयि शिरसि दध्यौ प्रतिपलम् ।
स एष श्रीशेषः शिरसि शिरसि त्वञ्चरणयोः
प्रपेदे सारूप्यं दश दश मणीन्बिभ्रति शुमान् ॥ ५६ ॥

विवाहे वैदेह्याः पदरहमहःपाटलकलाः
कृशानौ संक्रान्तास्तदवधि किलायं दशकलः ।
प्रविश्यामुं क्षामच्छविरपि रविर्घाम लमते
नवीनं दीनेन्दुः खमिदमनुसृत्य प्रसरति ॥ ५७ ॥

तृणंमन्यश्चिन्तामणिमपि मुनिर्यः कलयति
प्रियं प्राणात्पृथ्वीदुहितरिदमङ्घ्रेस्तव नखम् ।

१. अतिशयेन मञ्जः. २. दीनो बालो यथा फलविशेष लब्ध्वा तं सर्वेभ्यो दर्शयति

तथा. ३. बहेर्दश रवेदश चन्द्रस्य षोडश कलाः सन्तीति ताधिकार. ४. अग्निप्रवे. शमकुर्वाणोऽत एव दीनस्तेजोहीनो विधुः खमनुसृत्याकाशतुल्यवर्णो भूला धावति,