पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

दृष्टिघ्राणविवाफणाधरपतीनष्टापि दृष्ट्या स्वयं
रोद्धुं द्रावयितुं विनाशयितुमप्यव्याहतप्रक्रमः ।
मार्जारान्नकुलांश्च किं खगपतिः साह्ये वृणोत्यात्मनः
किं प्रत्यर्थिकुलस्य वृत्तिद इति प्रद्वेष्टि वा मारुतम् ॥ ९७ ॥

अध्वन्यान्कति सन्धते कति दृढान्मिन्दन्ति तोयाकरा-
न्केदारान्कति मज्जयन्ति कति च व्यापाटयन्ति दुमान् ।
वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा
यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न ज्ञायते ।। ९८ ॥

का द्यौ: किं बलसद्म का वसुमती स्यात्सर्वमेतद्यदि
प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसंदर्शिनः ।
भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया
मुक्त्वेमं परमं कुकूपमितरत्किं नाम संभाव्यते ॥ ९९ ॥

त्वद्गर्मे सुखमासते फणिपतिश्रीकूर्मदिग्दन्तिनः
प्रत्यक्षा कुलभूभृतां स्थितिरपि त्वय्यम्व सर्वंसहे ।
ये त्वेते बिभृमो वयं भुवमिति खं ख्यापयन्ते यशो
निःशङ्कं निरपनपं च तदिदं नः कर्णशूलायते ॥ १०० ॥

भूतानां प्रभवस्थितिप्रविलयास्त्वय्येव विश्वंभरे
त्वद्गर्भ ननु ते रसातलजुषो दैत्याः फणीन्द्राश्च थे।
त्वं सर्वैरुपजीव्यसे दिविचरैस्त्वत्तोऽपि किंचित्परं
न स्यात्स्यादपि तन्निरस्तविषयं ब्रह्म त्वमेवासि नः ॥ १०१॥

इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रवन्ध- निर्वाहकश्रीमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदच्चारीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठ- दीक्षिसेन विरचितमन्यापदेशशतकम् ॥