पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रागभ्यागतया किलाभ्रसरिता संप्लावयन्त्या मही-
मम्मोधिः खयमप्यपूर्यत सकृत्तत्तज्जलाधारवत् ।
आस्तेऽयं कथमक्षयो निधिरपां ते ते कथं वासते
निर्व्याजाम्बुधराम्बुदानसुकृतं सिद्धं तदित्थं पुनः ॥ ५८ ॥

खातं शीतलबारिवारिदकुलश्यामाभिरामद्रुमं
पान्थश्रान्तिहरं सरः पथि हृतं दुर्भिक्षमप्यम्भसाम् ।
ये त्वेते भुवि चातका इति कदाप्यज्ञातभौमोदका-
स्ते गृह्णन्ति न चेदिहाम्बु किमतो दैवेन ते वञ्चिताः ।। ५९ ॥

भूमिष्ठा अतिपावनीः सुरभिलाः स्वाद्वीरपः सत्यज-
न्याचत्यम्बुदमम्बु चातकगणो यत्तेन किं साध्यते ।
किं तस्मै द्विगुणं प्रवर्षति घनः किंवा तपः साध्यते
प्राग्जन्मन्यवितीर्णवारिकणिकः पापी स इत्यूह्यते ॥ ६०॥

खादून्येव फलानि सन्ति सुरभीण्येव प्रसूनानि च
खान्तं चाप्युपकर्तुमर्हति जने साध्यं वनस्थेन किम् ।
भाग्यं ह्येतदतर्कितं वनतरोः पान्थो यदा तापस-
च्छायामस्य यदृच्छया फलवतीमध्यास्त गन्धोत्तराम् ॥ ६१ ।।

पान्थेषु व्ययितं फलं पथिषु यैर्नम्रै: सदा पादपै-
र्यैरप्युन्नतमौलिगोपितफलैः कोणे निलीय स्थितम् ।
दावेन ज्वलता द्वयेऽपि खलु ते निःशेषिताः सांप्रतं
पुण्यं पापमिति स्थितं द्वयमिदं तेषां द्वयानां पृथक् ॥ ६२ ॥

अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभि-
र्व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः ।
इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते
तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥ ६३ ।।

जायन्ते विजने वने क्षितिरुहो यद्यप्यमी दुर्भगाः
सर्वे ते बटुभिस्तयापि (?) न तथा बोद्धुं क्षमास्तुल्यवत् ।