पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


पीयन्तां तमसा दिशो विदघतां नीचाः पिशाचाः स्मयं
व्याक्रोशन्तु शिवाः कियञ्चिरमसौ कालः सखे स्थास्यति ।
अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे-
ष्वद्य खां प्रकृतिं गमिष्यति मही कोक त्वया क्षम्यताम् ॥ ४५ ॥

मेघा इत्यवतीर्य केऽपि नभसः सर्वं पयो गृह्णते
यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् ।
यस्तु खान्तिक एव तस्य महतस्तालस्य कालाब्दहोः
शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥ ४६॥

आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोचरं
डिम्भोऽस्माकम्पीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद-
प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ।। ४७ ॥

गन्तव्यं शिशिरेण नाम भवितव्यं नाम चूताङ्कुरै-
स्तानाखाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् ।
आस्तामेष तथाविधस्त्वमसि किं काक स्वतन्त्रस्य ते
कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥ ४८॥

काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा
घूकाः कोटरगह्वरेषु मशकैर्दंशैश्च सान्द्रं दलम् ।
आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः
पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥ ४९ ॥

सिग्घश्यामलकोमलं दलमतिप्रच्छायशीतं तलं
भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृतं फलम् ।
संपश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं
पान्थः पान्थमुखाद्विषद्रुमममुं दैवावेत्य द्रुतः ॥ ५०

वर्षन्त्यम्बुमुचस्तपन्तु तपना मथ्नन्तु देवासुरा
बधन्तु प्लवगाः पतन्तु सरितो गङ्गादिमाः सर्वतः ।