पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कासारस्य दशा त्वसौ कलुषितान्यम्भासि मनास्तटा
प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥ १९ ॥

द्यौरित्थं क्षितिरिस्थमित्थमुदधेर्मुद्रेति कृत्वा स्थितिं
विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि घात्रा यदा ।
दग्धं चण्डकरैतदेव पवनैरौत्पातिकैः शोषितं
मेघै: प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥ २० ॥

खस्ति खागतमास्यते सुखममी जाताः कुतः पल्लवाः
सन्तः सत्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते ।
किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां
धुस्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥ २१ ॥

दृष्टाश्चन्द्रसमुद्गमाः शतमतिकान्ताः शतं प्रावृषः
सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्थताम् ।
योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते
का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ।। २२ ।।

सर्वत्र स्रवतोऽस्य किंचिदुदकं दिष्ट्या मुहूर्ते क्वचि-
च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल ।
अद्यत्वे च तथा करोतु पटुता यद्यस्ति तद्दूरतः
शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥ २३ ॥

आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि वा-
प्यर्घं निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ते ।
शेषाः सन्ति कतिक्षणाः प्रणयजस्तत्रापि कोपो यदि
व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ २४ ॥

सर्वेषां विदिताः सुघाकरकराः साक्षात्सुधारूपिणः
संदेहोऽपि न तद्भुजः सुमनसो जाता न मर्त्या इति ।
तानेव ह्युपभुञ्जते प्रतिनिशं दीनाश्चकोरा इमे
क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥ २५ ॥