पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

किं त्वं दोहदमीहसे किमुदकैः सिक्तोऽसि किं केनचि-
ब्दद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता ।
द्विस्त्रिः पुष्प्यसि वासरे ह्यनुगुणं धुस्तूर ते निह्नवे
दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि न ॥ १३ ॥

गन्तव्यं जलमध्य एव गतवन्मन्तव्यमेतद्वपुः
क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक
अन्तर्वेश्मनि हंसतूलशयने सुस्त्वा सुखं जाग्रतो
हस्ताग्रे धनमेष्यति खयमिति भ्रतः किमास्ते हृदि ॥ १४ ॥

आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः
किंचिच्छंसति पञ्चकं शतकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते
मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥ १५ ॥

विद्धं मर्मसु येन येन गरलोन्मिश्रा गिरः श्राविता
जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा ।
सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो-
र्दौर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥ १६ ॥

संनद्धेषु पयोधरेषु चलितेऽमन्दं पुरो मारुते
कादम्बे कमलाकरस्थितिमपि त्यक्त्वा सरः प्रस्थिते ।
मिथ्यारोपितपौरुपैर्मधुकरैर्मुग्धैर्यध्यासितं
तस्येदं फलमम्भसा प्रवहता सैवाब्जिनी मज्जिता ॥ १७ ॥

संत्यक्ता यदि केतकी त्रिभुवनश्लाघ्या पुरद्रोहिणा
तमिन्नेव हि पर्यवस्यति ततो वस्तुष्वसारज्ञता ।
किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते
किं नेमामुपलालयन्ति रसिकाः क्षोणीभुजो मौलिभिः ॥ १८॥

कोणे क्वाप्यवतीर्य गात्रममितः सिक्त्वा पयःशीकरै-
राखाद्योदकमागतोऽसि पुनरित्यास्ते गजस्याशये।