पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ-
स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥६॥

अस्तप्रत्युपकारगन्धमकृतखप्रार्थनापेक्षम-
प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यमी जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति य-
द्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ७ ॥

अस्ति खादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरक-
स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृक्षाधमः पिप्पलो
दुःखातत्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥ ८॥

सर्वासां सरितां पतिः खलु यदि व्याप्तः समस्ता दिशः
कल्पान्तेष्वपि वा न शुष्यति यदि खैरं तदङ्गीकृतम् ।
अम्भः खादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं
तेन स्यात्कलमर्णवोऽयमिति चेदिन्दुग्रहे स्नस्यते ॥९॥

स्थित्वा तीरभुवि प्रसार्य सरसि स्वैरं कराग्रं पयः
पातव्यं पिन तावता न विरमेद्दन्तीन्द्र किं ते तृषा ।
उन्मृद्गासि तटीरपः कलुषयस्युन्मूलयस्यञ्जिनी
हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥ १० ॥

को दोषः परितो गते मघुकरे क्रीतः किमेष त्वया
क्रीतेनापि किमास्यते क्वचिदपि ग्लानोदरेण क्षणम् ।
जानास्येवमथापि चेरिक्षपति तं कर्णानिलैर्दूरतो
दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वार्तैव का ॥ ११ ॥

नेतव्यः समयः कियानिह सखे काक त्वया भ्राम्यता
हंसीभूय सुखेन भुङ्क्ष्व नलिनीनालानि पद्माकरे ।
व्यावर्तव्यमिहास्ति किं विमलता किंचित्तु कार्या तनो-
र्हंसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥ १२ ॥