पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ काव्यमाला। यथा--'त्रस्यन्ती बलशफरी विघट्टितोरामोहरतिशयमाप विभ्रमस्य । शुभ्यन्ति प्रसभमहो विनापि हेतो-लाभिः किमु सति कारणे रमण्यः ।।' इति ॥ विहारे सह कान्तेन क्रीडन केलिरुच्यते ॥ ७९ ॥ त्रयस्त्रिंशयभिचारिण आह-- निर्वेदो ग्लानिशके च मदोऽसूया श्रमोऽपि च । चिन्ता स्मृतिधृतिर्मोहो ब्रीडालस्यं च दीनता ।। ८० ॥ चापल्यं हर्ष आवेगो विषादो जडता तथा । औत्सुक्यनिद्रागर्वाश्च वितर्कोऽपस्मृतिस्तथा ॥ ८१ ।। सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । व्याधिर्मतिस्तथोन्मादो मरणं त्रास एव च ॥ ८२ ॥ 'तत्त्वज्ञानापदीयादेनिर्वेदः खावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैवोच्छ्वासदी- नताः ॥' तत्त्वज्ञानान्निदो यथा--'प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्त्र पर्द शिरसि विद्विषतां ततः किम् । संप्रीगिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनु- मृतां तनुभिस्ततः किम् ॥' आपदा यथा—'राज्ञो विपद्धन्धुवियोगदुःखं देशच्युतिदुर्ग- ममार्गखेदः । आखाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतचिरजीवितायाः ॥ ईातो यथा--न्यकारो ह्ययमेव में यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिरिधक्छऋजित प्रबोधितवता किं कुम्भकर्णेन वा खर्गग्रामटिका- विण्ठनवृथोच्छूनैः किमेभिर्भुजः ॥' वीरनारयोर्व्यभिचारी निवेदो यथा-'ये बाहवो युधि न वैरिकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजिताशाः। नापि प्रियापृथुपयोधरपत्रभङ्ग- संक्रान्तकुङ्कुमरसाः खलु निष्फलाते ॥' आत्मानुरूपं रिपुं तरुणीजनं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्यनभाय उदाहार्यः । रसानाः खतन्त्रों निदो थथा—करवं भोः कथयामि दैवहतक मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्माद्यतः श्रूयताम् । वामेनान वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥' विभावानुभावरसाझानझमेदादने. कशाखो निर्वेदो दर्शनीयः । अथ ग्लानिः-रत्याबायासतृक्षुद्भिर्लानिनिष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाङ्गवमनक्रियाः ।' निधुवनकलाभ्यासादिनमतृषाक्षुगमनादिभि- निष्प्राणतारूपा ग्लानिः । अस्यां च वैवकम्पादयोऽनुभावाः । यथा---'लुलितनयन- ताराः क्षामवन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः संसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूवीरवश्वः ॥ शेषं निदेवदूह्यम् । अथ शङ्का-'अनर्थप्रतिमा शङ्का परक्रौर्यात्खदुर्नयात् । कम्पशोकाभिवीक्षादिरत्र वर्गखरा- न्यता ॥ तत्र परकौर्याद्यथा---'हिया सर्वस्थासौ हरति विदितास्मीति वदनं द्वयोदृष्ट्वाला