३३२
काव्यमाला।
रलं लोलाङ्गुलिः संस्पृशन्वारंवारमुञ्चयन्कुचयुगे प्रोदञ्चिनीलाञ्चलम् । यद्भूमातरङ्गि-
ताश्चितदृशा सावज्ञमालोकितस्तद्र्वावधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥'
यत्तु माधः----"किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते युवत्याः । संशय्य
शणमिति निश्चिकाय कश्चिद्विव्वोकर्वकसह्वासिनी परोक्षः ॥' तन । विबोकस्य केवलं
सुखवर्तित्वाभावात् । यत्त्वमरसिंह:--'स्त्रीणां विलासविन्वोकविनमा ललितं तथा ।
हेलालीलेल्यमी हावाः क्रियाः शृङ्गारभावजाः ॥ इति तदपिन । आचार्यः सर्वेषां
भेदवर्णनात् । 'माधो बभ्राम विवोके तत्रैवामरनामकः । ताभ्यां समो मया दृष्टः
श्रीहर्षः किलकिञ्चिते ॥
किलकिञ्चितम्-
क्रोधश्रमत्रासहासशुष्करोदनसंकरम् ।
अभीष्टसंगजाद्धर्षादुदेति किलकिञ्चितम् !! ७० ॥
'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।' 'रतिक्रीडाद्यूते कथमपि समासाद्य
समयं मया लब्धे तस्याः वणितकलकण्ठार्थमधुरम् । कृतभ्रूभङ्गासौ प्रकटितविल.
क्षार्परुदितसितक्रुद्धोद्धान्तं पुनरपि विदध्यान्ममि मुखम् ॥' यत्तु श्रीहर्षः---'बयि
चीर विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहाराव-
लिरामणीयकम् ॥ इति तन्न । साभावात् । भविष्यत्सामीप्ये वर्तमानवद्भाव इति
बदसि चेदृष्टान्तानुपपत्तिः।
मोट्टायितम्-
तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ।। ७१ ॥
'मोहायितं तु तद्भायभावनेष्टक्रथादिषु ।' प्रियतमानुरागेण भावितान्तःकरणखम् ।
चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । श्रीडार्धवलितं चक्रे मुखेन्दुमनशैव सा ॥'
छुट्टसितम्-
केशस्तनावरादीनां ग्रहे हर्षेऽपि संभ्रमात् ।
आहुः कुट्टमितं नेति शिरःकरविधूननम् ॥ ७२ ॥
- सानन्दान्तः कुट्टमितं कुप्येत्केशाधरग्रहे ।' 'दष्टेऽधरे प्रणयिना विधुताप्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥' विभ्रमः-- स्वरया रागहर्षादेर्दयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः ॥ ७३ ।। 'विभ्रमस्वरया काले भूषास्थानविपर्ययः । यथा 'अभ्युद्गते शनिनि कोमलकान्त-