पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
काव्यमाला ।

स्वाधीनः स्यात्पतिर्यस्याः स्वाधीनपतिका हि सा ।
सुरतोचितवारज्ञा सुरतस्योपयोगिनीम् ॥ ३८ ॥
संपादयति सामग्रीं या सा वासकसज्जिका ।
सोत्का ध्यायति या भर्तुरनागमनकारणम् ॥ ३९ ॥
रतार्थिनी तु संकेतं याति या साभिसारिका ।
विप्रलब्धा प्रियं तत्रादृष्ट्वा संतापसंकुला ॥ ४० ॥
खण्डिता रतिचिह्नाढ्यो यस्या आयाति नायकः ।
कलहान्तरिता तप्ता यावमत्य प्रियं भवेत् ॥ ४१ ॥
प्रवासिनि प्रिये तप्ता ज्ञेया प्रोषितभर्तृका ।
प्रवत्स्यति प्रिये तप्ता प्रवत्स्यत्पतिकेष्यते ॥ ४२ ॥
कुर्वतोऽप्यहितं भर्तुर्हितकृद्योत्तमा हि सा ।
हिताहितं या चरति प्रियवन्मध्यमा च सा ॥ ४३ ॥
कुर्वत्यपि हितं पत्यावहितं कुरुतेऽधमा ।
इति तास्त्रिविधा ज्ञेयाः स्वभावप्रभवैर्गुणैः ॥ ४४ ॥

 स्वाधीनपतिका यथा -क्व विधेयो मया मानः स विधेयोऽस्ति मे यतः । सविधे वर्तते से यः स विधेर्मय्यनुग्रहः ॥' वासकसज्जा यथा-'अनल्पं तल्पमाकल्प्य चेटिकां वीटिकां स्रजम् । निवेश्य तस्य सविधे विधेयमभिकाङ्क्षति ॥' उत्का यथा-कार्यान्तरासक्ततया किमद्य नार्यन्तरासक्ततयाथवा माम् । न जीवितेशः स्मरतीति मत्वा न जीवितेशः स्मरतीति मन्ये ॥' अभिसारिका यथा-'बिभ्राणा नाङ्गनाङ्गेषु भूषणं, चन्दनं स्रजम् । अनङ्गाभिसरा रात्रौ दिवेवायाति कानने ॥' ज्योत्स्नाभिसारिका यथा---'ओष्ठहस्तपदारुण्यादाज्ञाय शयने प्रियाम् । चन्द्रिकायां निर्ववार मुक्ताकृतविभूषणाम् ॥' विप्रलब्धा यथा---'पापीयसा प्रेयसाद्य विप्रलब्धा न केवलम् । लपता लाभमित्याह गणिका गणकेन च ॥ खण्डिता यथा-'अधरे रदनक्षतं कपोले प्रिय पत्रावलिमक्ष्णि रक्तिमानम् । अपनेतुमसि प्रभुर्न सद्यः परिवर्त्यांशुकमागतो न किं स्याः ॥' कलहान्तरिता यथा---'याते सरोषे दयिते तु मातर्नातः परं कश्चन दुःखहेतुः । स्थिरं न चेतो नयने न शुष्के श्वासो न शीतोऽस्त्यधरो न चार्द्रः ॥' प्रोषितभर्तृका यथा---'कुसुमानि न केशेषु चन्दनं न कलेवरे । वरे विदेशे तन्वङ्ग्या व्यङ्ग्यहीनं सुभाषितम् ॥' प्रवत्स्यत्पतिका यथा-'अस्रैर्वृष्टिं प्रकुर्वाणां बाणासनकरो नरः । वर्षां प्रवेक्ष्य (?) न ययावतिरम्यपयोधराम् ॥'