पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
काव्यमाला ।

लक्षिता सा तु विज्ञेया या जनैर्ज्ञातरागिका ।
या गोपायति सा गुप्ता भूतं भावि भवद्रतम् ॥ २६ ॥

 (गुप्ता यथा) भूतसुरतगोपना यथा---'गृह्णन्त्या निष्कुटे श्रीफलदलमसकृद्वृक्षमूले भ्रमन्त्या पूजायै शंकरस्य श्रमजलमखिले वर्ष्मणि स्तम्भ ऊर्वोः । स्तुत्या किंचिद्विलम्बः क्षतमजनि कुचे कण्टकेनैव तस्य तत्पूजास्रग्धराहं हतसकलजनैरन्यथैव व्यतर्कि ॥' वर्तमानसुरतगोपना यथा-'आराममाब्दिकदिनोचितदेवपूजाहेतोविचित्रकुसुमानयनाययान्त्या । अत्रान्तरे महति मेऽनवधानभाजो भ्रष्टाङ्गदं मृगयते सखि साधुरेषः ॥' अपि च-'धृतराष्ट्रः कथं भीमं बभञ्जायसमित्यसौ । मया पृष्टो दर्शयति साधुः सर्वपुराणवित् ॥' भाविसुरतगोपना यथा-निन्दन्तु पापमतयः सखि मानवा मां जानातु किंचिदपि चेतसि वल्लभश्च । गात्रं गतिश्रमभरालसमेतदस्तु यास्यामि किं न बत दैवतपूजनाय ।' यत्तु रसमञ्जर्याम्-'त्रितयमपि-' इत्यादि तत्तत्र श्लोके वृत्तवर्तिष्यमाणयोरेवं प्रतीतेश्चिन्त्यम् ॥

कुलटा बहुपुंरागा वेश्यादेश्या प्रकाशतः ।
लोभेन सर्वपुंरागा सामान्या कथिता बुधैः ॥ २७ ॥

 कुलटा यथा-'कांश्चिद्वचो वदति पश्यति कश्चिनेयं कांश्चिच्च दर्शयति संवृतमात्मनोऽङ्गम् । कांश्चि(कंचि)द्रतेन च सुखं नयतेऽद्वितीयं नैकत्र हि प्रणयिता कुलटाजनस्य ॥' लोभेनेति । यथा-'आ दर्शनादर्थहरां वेश्यामर्थविशेषकैः । महाजननां स्तुवतां साहसं को न वर्णयेत् ॥' साधारणस्त्री गणिका कलाप्रगल्भा धौर्त्ययुक् । 'छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् । रक्तेव रञ्जयेदेतानिःस्वन्मात्रा विमोचयेत् ॥' छन्नं कामयन्ते छन्नकामाः श्रोत्रियवर्णिलिङ्गिप्रभृतयः । सुखार्थोऽप्रयासावाप्तधनः सुखप्रयोजनो वा अज्ञो मूर्खः । स्वतन्त्रो निरङ्कुशः । अहंयुरहंकृतः । पण्डको वातपण्डादिः । एतान्बहुवित्तान्रक्तेव रक्षयेदार्थम् । तत्प्रधानत्वाद्वृत्तेः । गृहीतार्थान्कुट्टन्या निष्कासयेत् ॥

गर्विता चान्यसंभोगदुःखिता मानिनीस्त्रियः ।
गर्विता द्विविधा हेत्वोः प्रेमसौन्दर्ययोर्भिदा ॥ २८ ॥

 तत्राद्या यथा---'रात्रौ प्रियावियोगस्य धन्यः कोकोऽस्ति सासहिः । मामपश्यन्क्षणमपि प्रियो यद्दुर्मनायते ॥ यत्तु रसमञ्जर्याम्-'एताः षोडशापि-' इति, तद्व्याख्यानं व्यङ्ग्यार्थकौमुद्याम्-'मध्याप्रगल्भयोधीरादिषड्भेदानां ज्येष्ठाकनिष्ठाभ्यां द्वादश भेदाः । मुग्धा एकैव । एवं त्रयोदश । द्विधा परकीया । एका सामान्या । एवं षोडश ।' इति, तच्चिन्त्यम् । भानूक्तज्येष्ठाकनिष्ठालक्षणस्य मुग्धायामपि सत्त्वात् । तस्या द्विविधत्वाच्च ॥

मानः कोपः स तु द्वेधा प्रणयेर्ष्योत्थभेदतः ।
द्वयोः प्रणयमानः स्यात्कोपो यः कारणं विना ॥ २९ ॥

१. 'निज' ख.