पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
रसरत्नहारः ।

स्वानूढा स्वानुरक्ता स्त्री परकीया निगद्यते ।
उत्तमाधमभेदाभ्यां द्विविधा द्विविधा मता ॥ २० ॥
अलक्षितानुरागैषा स्वीयाकल्पोत्तमा भवेत् ।
तद्भिन्ना त्वधमा ज्ञेया विदग्धाद्यास्तु तद्भिदाः ॥ २१ ॥

 स्वशब्देन वर्ण्यः । यत्तु रसमञ्जर्याम् । 'अप्रकट-' इति लक्षणं तत्र कन्यकायाः पत्युरभावात्परपुरुषानुरागस्यासंभवः । यदि भाविनं पतिमादाय परत्वं तर्हि तथैव परोढात्वमेवास्तु किं भेदद्वयवर्णनेन । यदि पित्राधीनतया परकीयात्वमिति, तदपि न । लक्षणवाक्ये तस्यानुपयोगात् । अथ संज्ञायाः परस्येयं परकीयेत्यत्रोपयोग इति चेत्तर्हि 'अप्रकट-' इत्याद्यनुपयुक्तम् । तद्भिदा इति 'षिद्भिदादिभ्योऽङ्' ।

परोढाकन्यकाभेदाद्विविधैषा पराङ्गना ।
चेष्टैवास्या न प्रसिद्धोऽनुरागः कविभिः स्तुतः ॥ २२ ॥

 परकीया यथा--'मूर्तिं मुरारेः शिल्पस्य सीमानं निजनिर्मिताम् । अनन्यजवशाद्दूती प्रियां प्रादर्शयद्रसात् ॥' अप्रकटानुरागा यथा---'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुन(तनुं)रालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्यकोदाहरणं तु शाकुन्तलमालतीमाधवयोः स्पष्टम् ॥

विदग्धा मुदिता चैषानुशयानाथ लक्षिता ।
गुप्ता च कुलटा चेति षट्प्रकारोदिता बुधैः ॥ २३ ॥
विदग्धा वाक्क्रियाहेतुवैदग्ध्याभ्यां द्विधेष्यते ।
भाविस्वाभीष्टवोधेन प्रहृष्टा मुदितोच्यते ॥ २४ ॥

 क्रियाविदग्धा यथा-श्वश्रूनिरुद्धोर्ध्वगतिर्विदग्धा मिषेण विक्षालितकेशहस्ता । स्तनावधि खच्छनिबद्धवस्त्रा गौरी जगामोर्ध्वमपश्यदिष्टम् ॥'

नाशात्संकेतस्थलस्य भाविनोऽभावशङ्कया ।
स्वहीनप्रिययातस्य बोधाच्चानुशयस्त्रिधा ॥ २५ ॥

 स्वद्दीनप्रिययातस्येति 'गत्यर्थाकर्मक-' इति भावे क्तः । प्रियस्य यातं गमनं तस्य बोधात् । यथा-'सा वार्षिकोत्सवदिने सरसोरुहाक्षी मात्रा प्रसाधनमिषेण गृहे निरुद्धा । नद्याः समागतमवेक्ष्य गृहीतपद्मं कान्तं मुखं द्रुतमधत्त दिनेन्दुतुल्यम् ॥' यत्तु रसमञ्जर्याम्-'कर्णकल्पित-' इति, तच्चिन्त्यम् । 'निष्पतन्नयनवारिधारया' इत्यनेन चेष्टायाः स्पष्टत्वात्परकीयात्वासंभवः । न च सति स्वीयात्वे का क्षतिः । गुप्तादीनां परकीयायामेवान्तर्भावोक्तेः । १. 'चानुशया त्रिधा क.