पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
काव्यमाला ।

रतारम्भेऽचेतना यथा---'धन्यासि या कथयसि प्रियसंगमेऽपि, विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥'

एषा ज्येष्ठा कनिष्ठेति द्वेधा स्नेहैकभाजनम् ।
भर्तुर्या सा भवेज्येष्ठा कनिष्ठा तु ततोऽवरा ॥ १३ ॥

ज्येष्ठाकनिष्ठे यथा---'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सुपुलकः प्रेमोल्लसत्साध्वसा(मानसा)मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' यत्तु रसमञ्जर्याम्-'धैर्य-' इत्युदाहरणं तदसंभवि । मुग्धायास्तदसंभवात् । 'कोपे मार्दवम्' इति मुग्धाचेष्टोक्तेः । 'पुष्पस्यावचयाय नम्रवदनाम्' इत्यत्र स्पष्टमेव मुग्धालत्वप्रतीतेः ॥

धीराधीरा तथा धीराधीरेति त्रिविधे स्त्रियौ ।
मध्याप्रगल्भिके मानावस्थायामुदिते बुधैः ॥ १४ ॥
धीराधीरे क्रमाद्व्यङ्ग्याव्यङ्ग्यकोपप्रकाशिके ।
धीराधीरा क्रमाद्व्यङ्ग्याव्यङ्ग्यकोपप्रकाशिका ॥ १५ ॥
प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा ।
अधीरा परुषोक्त्याथ धीराधीरा तु रोदनैः ॥ १६ ॥
प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।
उदास्ते सुरते तत्र दर्शयन्त्यादरान्बहिः ॥ १७ ॥
धीराधीराथ सोल्लुण्ठभाषितैः खेदयेद्धवम् ।
तर्जयेताडयेदन्येत्युक्तं साहित्यदर्पणे ॥ १८ ॥
धीरादिभेदाः स्वीयाया इति प्राचीनलेखनम् ।
नव्यैस्तु परकीयाया अपि ते स्युरितीरितम् ॥ १९ ॥

'धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥' यथा---'ह्रीविषाणभरभुग्नशिरा मां हन्तुमेति कमितृृषभ एषः । सख्यनाथ इति बन्धनमाशु प्रापणीय इतरज्ज्वलगोष्ठे ॥' प्रौढायाश्चेष्टा यथा-'सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा । संतर्ज्य ताडयेत्कान्तं मध्याधीरेव तां वदेत् ॥' तर्जनताडनोदाहरणं यथा-'कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा चात्मनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥' यत्तु रसमञ्जर्याम्-'प्रतिफल- इति तदसंगतम् । देवविषये तथावर्णनस्यायोग्यत्वात् ॥ १. 'कमितऋषभ' इति संधिः, कामुकश्रेष्ठ इत्यर्थः.