पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तासां वभौ रोमलता मुखेन्दुभीता तमःश्रीः स्तनरक्षितेव ।
रागाग्निधूमग्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥ ४८ ॥

तस्याघरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव ।
हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥ १९ ॥

भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः ।
वाताञ्चितैः पल्लवपाणिभिस्ता निवार्थमाणा इव मञ्जरीभिः ॥ ५० ॥

संतर्ज्यमाना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः ।
तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ॥ ५१ ॥

निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् ।
तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥ ५२ ॥

कोपोत्कटव्याघ्रविदीर्यमाणक्षमामृगीरक्तचितेव तेषाम् ।
आसन्नदोषागमवासरान्तसंध्यानिमाभूत्सहसैव दृष्टिः ॥ ५३ ॥

दष्टाधराः कम्पविधूर्णमानाः खेदार्द्रदेहा विषमं श्वसन्तः ।
ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥ ५४ ॥

अन्तर्ज्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः ।
त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥ ५५ ॥

वृसीं समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः ।
येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥ ५६ ॥

कमण्डलु कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् ।
आदाय मोहेन पिनाकपाणे: पुरः प्रहाराभिमुखो बभूव ।। ५७ ॥

तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् ।
प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥ ५८ ॥

तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः ।
आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥ ५९ ॥

ते प्रापुरीर्ष्यापदमन्धकारि वक्रं शशाङ्कोपममीक्षमाणाः ।
कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्च्छाम् ॥ ६०॥