पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् ।
पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥ ३५ ॥

बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन ।
अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥ ३६ ॥

लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ स पुष्पैः ।।
रूपान्तरे निह्वुत जन्हुकन्याफेनावशेषैरिव कीर्णकेशः ।। ३७ ॥

तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै ।
जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥ ३८ ॥

रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् ।
लज्जापहाराद्वनदेवतानां सविस्मयो येन नवामिलाषः ॥ ३९ ॥

विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः ।
नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ।। ४० ॥

नमःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् ।
प्रकम्पशिञानविभूषणानां नेत्रोत्सवोऽभूगतिविघ्नभूतः ॥ ११ ॥

सुसिद्धकन्याञ्जलिपल्लवाग्रविमुक्तनीलोत्पलपुष्पकुञ्जम् ।
अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवावभासे ॥ ४२ ॥

तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् ।
मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥४३॥

तस्य प्रवेशे वदनाधिवासलोभभ्रमद्भृङ्गगणाञ्चितानाम् ।
अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्यः ।। ४४ ॥

शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् ।
विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ।। १५ ।।

तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा ।
उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥ ४६॥

तासां तदर्चाररभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् ।
नवेन कामेन खलीकृतानां जृम्भाभवोऽभूद्भुजयोर्विलासः ॥ १७ ॥

१. 'पूर्वापराधादिव' ख. २. निशाधनेनेव' ख. ३. 'पत्र' ख. ४, 'प्रदेशे क.

११५० गु०