पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् ।
प्रद्वेषदोषोष्णममेयमायं संसारचिन्हं ब्रतमेतदत्र्यम् ।। ११ ।।

जटाक्षसूत्राजिनयोगपट्टकन्थादृढग्रन्थिनिपीड्यमानम् ।
विवेकहीनं विरतप्रकाशं व्रतं बृहद्वन्धनमामनन्ति ॥ १२ ॥

सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा ।
लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥ १३ ॥

निःसङ्गयोग धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् ।
कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥ १४ ॥

बालस्तपस्वी किमतोऽस्ति हास्यं युवा बनैषी किमतोऽस्त्ययोग्यम् ।
वृद्धः सरागः किमतोऽस्ति निन्द्यं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् १५

क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन ।
तपोऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥ १६ ॥

हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये ।
तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥ १७॥

ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नमःपथेन ।
समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥ १८ ॥

तस्योदितानां वदनप्रभाणां दीर्घाीकृतानेकशशिप्रभाणाम् ।
विलासहास्येन नमो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥ १९ ।।

देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् ।
मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥ २० ॥

देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् ।
तपःक्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥ २१॥

कस्मादमी वर्षसहस्रलग्नक्लेशावलग्नास्तनुशोषमग्नाः ।
भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥ २२ ॥

१. 'निषेव्यमाणः' ख, २. नीलांशुक' क. ३. 'भयप्रयासं व्रतं नवोद्धकवृत्तितुल्यम्'

ख. ४. 'स्पर्शविवर्जित' यत् ख. ५. 'शापम् ख. ६. 'प्रसव्या' क. ५, दीर्घ क. ४. 'मरीचि' ख. ६. 'छवीनाम् स. १०. 'विभक्तसंसिक' क. ११, 'विग्रहाणाम् क.