इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः।
विचिन्त्य 'संततोच्छ्वासः क्षणं स्तिमिततां ययौ ।। ५३ ।।
तस्मात्सुवर्णाम्बररत्नभूमिदानैर्न दर्पः पुरुषेण कार्यः ।
भवत्युदारं करुणासत्त्वं दानं सदा कस्यचिदेव पुण्यैः ।। ५४ ।
इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने दानविचारः षष्टः ।
सप्तमो विचारः।
तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् ।
तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥ १॥
सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः ।
कोयोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥ २ ॥
चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः ।
चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ॥ ३ ॥
कोपेन शापस्फुरिताधराणां कामेन कम्पस्फुरिताधराणाम् ।
खेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥ ४॥
भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव ।
नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्निशङ्कुः ॥५॥
भूमग्नमूर्तिर्वररत्नलोभाद्विपाटयन्ती नयने सुकन्याम् ।
तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥ ६॥
पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् ।
दग्धः परीक्षित्फणिफूत्कृतैर्यत्तपस्विकोपस्य विजृम्भितं तत् ॥ ७ ॥
विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् ।
शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥ ८॥
न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् ।
न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्रं विमलं व्रतं तत् ॥ ९॥
ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवहारभारम् ।
दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥ १०॥
१. 'प्रततोच्यास' क. २. "विलम्म' ख.