पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत् ।
सप्ताब्धिपरिखालेखामेखलायाः प्रभुर्भुवः ॥ २९ ॥

तस्य निःशेषितारातेः सदा युद्धमनोरथः ।
अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥ ३० ॥

स सुरासुरयुद्धाप्तदर्पदर्पितमानसः ।
कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम् ॥ ३१ ॥

दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम् ।
सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥ ३२ ॥

नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये सत्यमुच्यते ।
किं तु जाने रणाही ते नरनारायणावृषी ।। ३३ ।।

बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ ।
युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥ ३४ ॥

नारदेनेत्यभिहिते स बदर्याश्रमं ययौ ।
विलोकयन्निजमुजौ प्रत्यासन्नरणोत्सवौ ॥ ३५ ॥

दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः ।
मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥ ३६॥

तं युद्धकामुकं तिर्यग्द्रिशा गम्भीरधीरया ।
विलोक्योवाच सावज्ञस्मितदिग्धाधरं नरः ॥ ३७॥

महीपते निवर्तस्व न वयं युद्धकोविदाः ।
युक्तरतैरेव सङ्ग्रामस्तव ये भूम्यनन्तराः ॥ ३८ ॥

इत्युक्तोऽपि यदा राजा न चचाल रणादरात् ।
तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत् ॥ ३९ ॥

प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः ।
विनष्टविग्रहरुचिर्नृपस्तत्याज धीरताम् ॥ ४० ॥

१. 'तापित क. २. 'सर्वावसान' ख. ३. 'सर्वज्ञः स्मितलीलाधरो नरः' ख.

४. 'ऐशीकनिस्सृताथैरपूजयत्' क.