पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
चतुर्वर्गसंमहः ।


आपाण्डुता मदनकीर्तिसखी मुखेन्दौ
 प्रौढिं बिभर्ति विरहे हरिणायताक्ष्याः
अच्छिन्नबाष्पविसरारुणनेत्रकोण-
 लीनप्रतापमिव मन्मथमुद्वहन्त्याः ॥ १५ ॥
वियोगे तन्वङ्गया हृदयदमने दैन्यसढ़ने
 घने भर्तृस्नेहान्मदनदहने धैर्यचलने
समासन्ने चिन्ताव्यसनशमने प्राणगमते
 तनुस्तावम्लाने चलति नलिनीपत्रशयने ॥ १६ ॥
दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते
 प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि
एतैः संभ्रमकातरे किमधुना. मिथ्यासमाश्वासनैः
 संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥१७॥
[१]मायाते पत्यौ बहुतरदिनप्राप्यपदवीं
 समुलङ्घ्याविघ्नागमन चतुरं चारुनयना
स्वयं हर्षोपाद्बाष्पा हरति तुरंगस्यादरवती
 रजः स्कन्धालीन निजवसनकोणावहननैः ॥ १८ ॥
वासः कम्पविशृखलं वितिलकं स्वेदोद्गमादाननं
 संदष्टोऽधरपल्लवः कलयति श्वासोष्मणा म्लानताम् ।


  1. 'आयाते दयिते मरुस्थलभुदामुवीक्ष्य दुर्लयता तन्वया परितोषनापतरलामासज्य दृष्टिं भुखे । दवा पीलशमीकरीरकवलं खेनाचलेनादरादुन्मृष्ट करभस्थ केसरसटाभारावल रन: ॥' इत्यतमुहकवेयं लोकः सुभाषितावनि-सूविमुत्तावलि-शाधरपद्धति-दशरूपावलोकादिषु प्रसिद्धः समाया। इसादिक्षेमेन्द्र श्लोकस्त्वस्य च्छायारूपः