मलयजमयी स्पर्शे तन्वी तुषारमयी स्मिते.
दिशतिः विषमं स्मृत्या तापं किमग्निमयीच मा ॥ ७ ॥
स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां
कुरव इवः कटाक्षाः प्रौढशल्या मनांसि।
भुवनजनजिगीषोत्साहयोगाय येषा-
मधिचपलतराणां निश्चला कर्णमैत्री ॥८॥
स्तनस्थली हारिणि सुन्दरीणां नितम्बबिम्ने रशनासनाथे ।
भत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९ ॥
कान्ताया विलसद्विलासहसितस्वच्छांशवश्चासरं
संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ ।
युत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां
साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः॥१०॥
नासादितानि वनवासदृढव्रतेन
चित्राणि नेत्रचरितानि मृगैर्मृगाक्ष्याः
तत्कान्तिरुज्वलरुचिव्यसनादहो नु
हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥
अभिनवपयोधरोदतिविषमस्थितिहारहंसमुखपतिता।
शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥
नेय तरुण्यास्त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः ।
स्नात्वा गतोऽस्यां स्मरकेलिवाप्यां कलकलेखामपहाय चन्द्रः ॥ १३ ॥
कर्णे कोकिलकामिनीकलरवः संतससूचीचयः
फुल्लाशोकपलाशचम्पकवनाद्युद्दामदावानलः
तन्वङ्या विरहे वसन्तसमयः कालः किमन्यन्नृणां
देहोच्चाटनमेव षट्पदघटाघ्राणातिथिर्मन्मथः ॥ १४ ॥