आश्चर्यमम्ब भजतां झटिति स्वकीय-
संपर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥
कुण्ठीकरोतु विपदं मम कुञ्चित-
चापाञ्चितः श्रितविदेह[१]भवानुरागः
[२]रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥
श्रीकामकोटिशिवलोचनशोषितस्य
शृङ्गारबीजविभवस्य पुनः प्ररोहे।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥
माहात्म्यशेवधिरसौ तव दुर्बिलङ्घ्य
संसारविन्ध्यगिरि कुण्डनकेलिचुञ्चु:।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोतिः
कामाक्षि वीक्षणविजृ न्मणकु[३]म्भजन्मा ॥२०॥
पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी-
मैत्री निसर्गमधुरा कृततारकाप्ति:।
कामाक्षि संश्रितवती वपुर[४]ष्टमूर्ते-
र्ज्योत्स्त्रायते भगवति त्वदपाङ्गमाला ॥ २१ ॥
अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ-
मम्भोजकाननमिवाञ्चितकण्टकाभम्
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥