आधुन्वन्त्यै तरलनयनैराङ्गजीं वैजयन्ती-
मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलेैरागमानां प्रपञ्चै-
राराध्यायै स्पृहयतितरामादिमायै जनन्यै ॥ ७२ ॥
दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
मोहक्ष्वेडक्षितिरूहवने तीक्ष्णधारं कुठारम् ।
कम्पातीरे प्रणयिकविमिर्वणितोद्यच्चरित्रं
शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ॥
खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शु[१] ण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती
तुण्डीराख्ये महति विषये स्वर्णदृष्टिप्रदात्री
चण्डीदेवी कलयति रतिं च[२]न्द्रचूडालचूली ॥ ७४ ॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यदृक्कोणे मदननिगमप्राभवं बोभवोति
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः
कम्पातीरे स जयति महाकश्चिदोजोविशेषः ॥ ७५ ॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं
निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जनी मञ्जुरीति-
र्वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६ ॥
अस्या बाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः