कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
मध्येसौदामनि मधुलिहां मालिकां राजयन्ती
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
कम्पातीरे विलसति न वा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥
चित्रं चित्रं निजमृदुतया मर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यमाजाम् ।
जातः शैलान्न तु जलनिधेः स्वेरसंचारशीली.
काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्प
तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् ।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या-
मैशानी सा कलयतितरामैन्द्रजालं बिलासम् ॥ ६९ ॥
आ[१]हारांश त्रिदशसदसामा[२]श्रये चातकाना-
मा[३]काशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासै-
रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
काश्मल्य नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥