मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षी तो कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥
कालम्मोदप्रकरसुषमां कान्तिभिर्स्तर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम्
कंदर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥
उरीकुर्वन्नुरसिजतटे चातुरी भूधराणां
पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रूचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥
काञ्चीलीलापरिचयनती कापि तापिच्छलक्ष्मी-
र्जाड्यारण्ये हुतनहशिखा जन्मभूमिः कृपायाः
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विधा ।। ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती
काचीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥
व्यावृण्वानाः कुवलयदलपक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविह्रतिरसिके काक्षितं नः क्रियासु-
र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥