इमां याच्यामूरीकुरु सर्पदि दूरीकुरु तमः-
परिपाकं म[१]त्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥
उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया
समृद्धा वाग्घाटी परिहसितसाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥
श्रियं विधां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रं प्रादत्ते तव जननि कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥
मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
सदा लोलं. नीलं चिकुरजितरोलम्बनिकरम् ।
गिरां दूरं स्मेरं घृतशशिकिशोरं पशुपते-
र्दृशां भोम्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा-
न्दृशा पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥
नतानां मन्दानां भवनिगडबन्धाकुलधियां
स[२]दान्ध्यं रून्धानाममिलषितसंतानलतिकाम् ।
चरन्तीं कम्पायास्तटमुति सावित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥