गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव
वक्रप्रभासरसि शैवलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥
संस्कारतः किमपि कन्दलितान्रसज्ञ-
केदारसीनि सुधियामु[१] पभोगभाम्यान्
कल्याणसूक्तिलहरीकलमाङ्कुरान्न
कामाक्षि कन्दलयतु स्वदपाङ्गमेधः ॥ १३ ॥
चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रुतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चि[२]त्रमपि ते करुणाकटाक्षः ॥ १४ ॥
संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य
सस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥
नीलोऽपि रागमधिकं जनयन्पुरारे-
र्लोलोऽपि भक्तिमधिका द्रढयन्नराणाम् ।
वक्रोऽपि देवि नमतां समतां वितन्व-
न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥
कामद्रुहो हृदयुयन्मणजागरूका
कामाक्षि चञ्चलमञ्चलमेखला ते ।