पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
पञ्चशती ।

कुचभरनताः कुर्युर्भद्र कुरङ्गविलोचना:
 कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३॥
कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः
 कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः
 पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
 वचनलहरीबासन्तीनां वसन्तविभूतयः
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः
 कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥
कवलिततमःखण्डास्तुण्डीरमण्डलमण्डना।
 सरसिजवनीसंतानानामरूतुदशेखराः
नयनसरणेर्नेदीयांसः कदा न भवन्ति में
 तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६ ॥
[१]चरममिषुं दीनं मीनध्वजस्य मुखश्रिया
 [२]सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिद[३]शसदसामन्नं खिन्नं गिरा च वितन्वती
 तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥
जननि भुवने चक्रम्येऽहं कियन्तमनेहसं
 कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
 नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥


  1. मीनच्छजस्व प्रथम बाणमरविन्दरूपं मुखश्रिया हीनं वितन्वतीखन्वयः
  2. हंसम्.
  3. पीयूषम्