अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमन्त्रमयैः
अतिशीतं मम हृदयं वि[१]षमशरद्रोहिजीवनोपायैः ॥ ५१ ॥
नन्दति सम ह्रदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥
शम्पालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४ ॥
ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम्
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥
आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जन्तुलोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥
पञ्चदशवर्णरूपं कंचन काञ्चीबिहारघौरेयम् ।
पञ्चशरीय शंभोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥
परिणतवतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् ।
[२]पश्चाशदर्णकल्पितपदशिल्पा तां नमामि कामाक्षीम् ॥ ५९ ॥
[३]आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम्
[४]स्वादिष्टचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥
तुष्यामि हर्षितस्मरशासनया काञ्चिपुरि कृतासनया ।
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥