त्वदीयः कामाक्षि स्फुरितचरणामोद महिमा
नमोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥
विनम्राणां चेतोभवनवलभीसीम्नि चरण
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९ ॥
विराजन्ती शुक्तिर्नखकिरणभुक्तामणितते ..
विपत्पाथोराशौ तरिरपि नराणां प्रणामताम्।
त्वदीयः कामाक्षि ध्रुवमल[१]धुवह्निभववने
मुनीनां ज्ञानाग्नेररणिरयमद्धिर्विजयते ॥ ८० ॥
समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः
भवत्या मिन्दानो भवगिरिकुलं जृम्भिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥
वसन्तं भत्तानामपि मनसि नित्यं परिलस-
द्घनच्छायापूर्णं शुचिमपि नृणां पापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चयकरणम् ॥ ८२ ॥
कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः
प्रपञ्चव्यापार प्रकटनकलाकौशलनिधिः
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मनिर्जनै-
र्नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥