पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
पञ्चशती।


[१]गलग्राही [२] पौरंदरपुरवनीपल्लवरुचां
 [३] धृतप्राथम्यानामरुणमहसामादिमगुरुः
[४]मिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि
 प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥
मरालीना यांनाभ्यसनकलनामूलगुरवे
 दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
 जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥
वहन्ती सैन्दूरीं सरणिमवनभ्रामरपुरी-
 पुरंध्रीसीमन्ते कविकमलबालार्कसुषमा
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटीं
 विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४॥
प्रणम्रीभूतस्य प्रणयकलवस्तमनसः
 [५]स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कान्तिं वहति सुषमाभिश्चरणयो-
 स्तयोर्में कामाक्ष्या हृदयमवतन्द्रं विहरताम् ॥ ५ ॥
ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
 ययोः सौधायन्ते स्वयमुदयभाजो मणितयः
ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो-
 स्तयोर्मे कामाक्ष्या दिनमनु वरीवर्तुं हृदयम् ॥ ६ ॥
नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
 सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।


  1. तिरस्कारका
  2. नन्दनवनतरुकिसलयानाम,
  3. तरुणरविकिरणानाम,
  4. दिशेयतें
  5. 'पुराराते इति अपा.