पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
कात्यमाला ।

संक्रुद्विजराजकोऽध्यविरतं कुर्वन्द्विजैः संगमं
 वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्यं वहन् ।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
 श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥ ७६ ॥
श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरपक्रमं
 नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मन्दहाससुषमा मातः कथं मानितां
 उन्मूना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥
ये माधुर्यविहारमण्डपभुवों ये शैत्यमुद्राकरा
 ये वैशद्यदशानिशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
 वाणीगुम्फल्डम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥
कामाक्ष्या मृदुलस्मिताशुनिकरा दा[१]क्षान्तके वीक्षणे
 मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगु[२]डद्राक्षाभवं [३]वाक्षु में
 सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥
जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते
 गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपङ्कपरम्परामलिनतामेकाम्रनाथप्रिये
 प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८० ॥
अश्रान्तं परतश्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः
 श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।


  1. दक्षान्तकः शिवस्तरसंबन्धिनि
  2. गुणं' इति का पाठ
  3. कणीषु