बिभ्राणां शरदभ्रविन्नमदशां विद्योतमानाष्यसौं
कामाक्षि सितमञ्जरी किरति ते कारुण्यधारारसम्
आश्चर्यं शिशिरीकरोति जगतीमालोक्य चैनामही
कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥
पेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजम्भितस्तनतटे नैचोलपट्टायितं
कल्माषं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥
पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापि प्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मन्थाति मन्दाकिनी
मिन्दुं निन्दति कीर्तिते च कलशीपा[१]थोधिमीर्ष्यायते ॥ २९ ॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम्
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातको
नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः
संसारख्यसरोरुहाकरख[२]लीकारे तुषारोत्करा:
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥
कमौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये
त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमकरानङ्कुरान् ।