येषां गच्छति पूर्वपक्षसरणिं कौमु[१]द्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्षां शरश्चन्द्रमाः
येषामिच्छति कम्वुरप्यसुलभामन्तेवसत्प्रक्रियां
कामाक्ष्या ममतां हरन्तु मम ते हासात्विषामङ्कुराः ॥ ५ ॥
आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता संकुतुके कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मन्दसितज्योतिषाम् ॥ ६ ॥
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः
यस्याश्चामरचातुरी कलयते रमिच्छटाचञ्चला
सा मन्दसितमञ्जरी भवतु नः कामाय कामाक्षि ते[२] ॥ ७ ॥
शंभोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि-
र्गैर्वाणीव तरङ्गिणी कृतमृदुस्यान्दां कलिन्दात्मजाम् ।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
कामाक्ष्याः सितकन्दली भवतु सा कल्याणसंदोहिनी ॥ ८ ॥
जेतु हारलतामिव स्तनतटीं संजम्मुषी संततं
गन्तुं निर्मलतामिव द्विगुणितां ममा कृपास्रोतसि
वक्तुं विस्मयनीयतामिव हरै रागाकुलं कुर्वती
मनुस्ते स्मितमञ्जरी भवभयं मनातु कामाक्षि मे[३] ॥ ९ ॥
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा ।