पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
पञ्चशती


धूमाङ्कुरः किमु हुताशनसङ्गहीन:
 कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥
कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
 बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
 कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥
दर्पाङ्कुरो मकरकेतनविभ्रमाणां
 निन्दाकुरो विदलितोत्पलचातुरीणाम् ।
दीपाङ्कुरो भवततिस्रकदम्बकानां
 कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५ ॥
कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
 कारुण्यनिर्झरपय: कृतमज्जनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
 स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥
अल्पीय एव नवमुत्पलमम्ब हीना
 मीनस्य सा सरणिरम्बुरुहां च किं वा ।
दूरे मृगी तदसमञ्जसमञ्जनं च
 कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥
मिश्रीभवद्गरलपङ्किलशांकरोरः-
 सीमाङ्गणे किमपि रिवणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
 कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८ ॥