प्रेमाम्बुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि
संधुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि [१]मन्मथचित्रभानुम् ॥ ७८ ॥
कालाञ्जनप्रतिभटं कमनीयकान्त्या
कंदर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥
क्रन्तेन मन्मथमदेन विमोद्यमान-
स्वान्तेन [२]चूततरुमूलगतस्य पुंसः ।
कान्तेन किंचिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥
कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे
कण्ठेन कन्दलितकालिमसंप्रदायाः
उत्तंसकल्पितचकोरकुटुम्बपोषा
न[३]क्तंदिवप्रसवभूनयना [४]भवन्ति ॥ ८१ ॥
नीलोत्पलप्रसवकान्तिनिदर्शनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः [५]कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥
अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
झंकारभङ्गिरहिता किमु भृङ्गमाला ।