दुष्कर्मकञ्चुकिकुलं कवलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२: ॥
कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिचवन्मुकुलीकरोति ॥ ७३ ॥
मूको विरिञ्चति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
ली[१]लातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥
नीलालका मधुकरन्ति मनोज्ञनासा-
मुक्तारुचः प्रकटरूदचिसाङ्कुरन्ति
कारुण्यमम्ब मकरन्दति कामकोटि-
र्मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥
आकाशयमाणफलदानविचक्षणायाः
कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमम्ब विमुक्तपाश-
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥
संसारधर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति.
मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥