लासिता ॥ तरङ्गिद्रवस्वभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्कर्षैकसार इव पूर्णेन्दुवदाह्लादको धर्मः संस्थानमुग्धिमव्यङ्ग्यो लावण्यम् ॥ अङ्गोपाङ्गानामसाधारणशोभामाशस्त्यहेतुरौचित्यात्मा स्मथी धर्मो लक्षणम् ॥ तस्यः क्तप्रमाणतादोषस्पर्शस्निग्धवक्रनियतलोमााङ्गसुश्लिष्टसंधानतानाहपरिणाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिद्धाङ्गपूर्णतादोषवैकल्यधर्मसौन्दर्यप्र[१]माणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड्भेदाः ॥ अग्राम्यतया वक्रिमत्वख्यायिनी रुपरिधाननृत्तमणितिगमनादिस्थानकेषु सूक्ष्मा भनि[२]श्छाया ॥ स्फुरलक्ष्म्यु[३]पभोगपरिमलादिगम्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश्च सौभाग्यम् ॥ तत्राद्ये स्मरमदपुलकादयो भेदाः । अन्त्ये तु मणितरूू[४] परिभोगाधरावादसौरभादिभिर्युगपद्रसवत्त्वात्प[५] ञ्चेन्द्रियसुखलाभः ॥
इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः ।
रत्नं हेमांशुके माल्यं मण्डनद्रव्ययोजने । |
- ↑ प्रमाणौचित्याख्या लोकाप्रसिद्धा विशिष्टा' इति क-पाठ:.
- ↑ 'छायास्मरलक्ष्मीः इति क-पाठः,
- ↑ उपभोगपरिगम्योऽन्तस्मारो रञ्जक--' इति कु-पाठः
- ↑ परिभोगधाराकसमसौरभादिभि- इति क-पाठः,
- ↑ 'पञ्चेन्द्रियी' इति स्व-पाठः,
- ↑ "कर्केतक' इति -पुस्तके, “करकेतन' इति च क-पुस्तके पाठः
- ↑ “पुलकः प्रस्तरभेदे इति मेदिनी. रुधिराख्यो मणिमेदः, तलक्षणं गरुडपुरापेऽटसप्ततिमितेऽन्याचे द्रष्टव्यम्, भीष्ममपि रामेदः, भीष्मरत्नम्, हिमालयोतरदेशजातवर्णप्रस्तर विशे' इति शब्दार्थचिन्तामणि विजेन्दनीसमर-