पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
कोटिविरहम् ।

अकारणसमुद्गमामपनयाशु दूरे रुषं
 विवादभरिताशये‌ मयि विधेहि दासे दवाम् ॥ ६९ ॥
अलितचिकुरबन्धं मण्डसंसक्तबाष्पं
 विचलदधरविम्बं विश्लथन्मुग्वगात्रम्
शयनमिदमकाण्डे व्यायतश्वासवातं
 चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७०॥
मुच मानम[१]निदानमिदानीमञ्चिताक्षि हृदि संचिनु मोदम् ।
 सिच वामयनुवाभिरवीरं पञ्चसायकहतं जनमेनम् ॥ ७१ ॥
इति विविधतराभिः सान्त्व्यमानापि वाग्भिः
 प्रतिबचनमुदश्रुः सा यदा न न्यगादीत् ।
अधिकुचतटमस्याः भातराक्ष्यास्तदासौ
 मृदु निजकरपद्मं न्यस्तवानस्तधैर्यम् ॥ ७२ ॥
कितव शठ किमेतन्मा स्पूशेत्यातभाषा
 निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् ।
तरुणमरुणिताभ्यामश्रुपूर्णान्तराभ्यां
 नयनसरसिजाभ्यां वीक्ष्य रूक्ष बभाषे ॥ ७३ ॥
अपसर शठबुद्धे मामकीनाजिकेला-
 दलमतिनयवाचा विस्तरैः कृत्रिमस्ते
ऋजुमतिरहमेवं त्वय्युपासडरागा
 ध्रुवम[२] वमतिपात्रं हन्त जाता जनानाम् ॥ ७४ ॥
तामेव नूतनां याहि किं मया [३] यातयामया ।
 सति सूने दरोत्फुल्ले कस्य वृ[४] न्तश्लथे स्पृहा ॥ ७५ ॥


  1. निष्कारणम्
  2. अवमानभाजन
  3. भुरुपायया
  4. लिपिळवन्धने मलान इति यावत्